र्यः खण्डेन्दुकिरीटकैटभजितोः काटश्रियं कर्षति॥ १४५॥
विद्यामभ्यस्यतो रात्रावेति या भवतः प्रिया।
वनिता गुह्यकेशानां कथं ते पेलवं धनम्॥ १४६॥
असभ्यस्मृतिहेतुर्यथा—(भामहा. १.५९)
उत्कम्पयसि मां चूत! पिकवाक्कटवेन किम्।
कृतः कृकाटिकायां ते पादः प्राणेन यास्यता॥ १४७॥
अप्रशस्तमप्रशस्तार्थान्तरमप्रशस्तस्मृतिहेतुश्चामङ्गलार्थम्। तेषु— अप्रशस्तं यथा—
खेटके भक्तसूपस्य वलभ्यां पत्तनस्य च।
अतृप्तोऽहं मरिष्यामि हेहले भाषितस्य च॥ १४८॥