भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 661 to 670 of 1770 verses
लिढव्यस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः।

एतस्मिन् मदगन्धवासितसटः सावज्ञतिर्यग्वल— त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः॥ १९१॥

हीनपात्रं यथा—(सक. ३.८.८)

भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्‌गीयते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः।

इत्यालोच्य चिरं दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः॥ १९२॥

देशो यथा—(सक. ३.८.९)

इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरदरदनारुग्णतरवः।

लताकुञ्जे यासामुपनदि रतिक्लान्तशबरी— कपोलस्वेदाम्भः—परिचयनुदो वान्ति मरुतः॥ १९३॥

कालो यथा—(सक. ३.८.१०)

कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्‍तोऽपि नैवोज्झति।

Showing 661 to 670 of 1770 verses