पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं शूलं प्रोल्लासयन्त्याः सुललितवपुषो मध्यभागस्य चण्ड्याः।
विश्लिष्टस्पष्टदृष्टोन्नतविरलवलिव्यक्तगौरान्तराला— स्तिस्त्रो वः पान्तु लेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः॥ १८६॥
षणपिट्ठधूसरत्थणि महुअतंबच्छि कुवलआहरेण।
कण्णकअचूअमंजरि पुत्ति तुए मंडिओ गामो॥ १८७॥
(क्षणपिष्टधूसरस्तनि! मधुमदताम्राक्षि! कुवलयाभरणे!।
कर्णकृतचूतमञ्जरि! पुत्रि! त्वया मण्डितो ग्रामः॥)
अग्रे गतेन वसतिं परिगृह्य रम्या— मापात्य सैनिकनिराकरणाकुलेन।