अर्थव्यक्तेरियं भेदमियता प्रतिपद्यते।
जायमानमियं वक्ति रूपं सा सार्वकालिकम्॥ १८३॥
स्वरूपमाश्रयो हेतुरिति तद्भेदहेतवः।
ते संस्थानादयस्तेषु सा विशेषेण शोभते॥ १८४॥
तत्र — संस्थानम्, अवस्थानं, वेषो, व्यापार इत्यादयः स्वरूपं, मुग्धाङ्गनाः, शिशवः, तिर्यञ्च, हीनपात्राणीत्यादय आश्रयः, देशः, कालः, शक्तिः, साधनमित्यादयो हेतुः (सक.३.७)। तेषु —
संस्थानं यथा—(कुसं. ३.७०)
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम्।
ददर्शं चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥ १८५॥