भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 621 to 630 of 1770 verses
(भामहा. १.५९)

गिरः श्रव्या दिव्याः प्रकृतिमधुराः प्राकृतधुराः सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम्।

विदग्धानामिष्टे मगधमथुरावासिभणिती निबन्धा यस्तेषां स खलु कविराजो विजयते॥ १८१॥

(बारा. १.११)

(२. अर्थालङ्काराः —२४)

अर्थमेव ये व्युत्पत्त्यादिना भूषयन्ति तेऽर्थालङ्काराश्चतुर्विंशतिः। तद्यथा—

जातिः सूक्ष्मः, सारः, समाहितं, भावः, विभावना, हेतुः, अहेतुः, सम्भवः, विरोधः, दृष्टान्तः, व्यतिरेकः, अन्योन्यं, परिवृत्तिः, मीलितं, वितर्कः, स्मरणं, भ्रान्तिः, उपमानम्, अनुमानम्, अर्थापत्तिः, अभावः, आगमः, प्रत्यक्षमिति। तत्र—

(१. जातिः)

नानावस्थानि जायन्ते यानि रूपाणि वस्तुनः।

स्वेभ्यः स्वेभ्यो निसर्गेभ्यस्तानि जातिं प्रचक्षते॥ १८२॥

Showing 621 to 630 of 1770 verses