संस्कृतेनैव केऽप्याहुः प्राकृतेनैव केचन।
साधारण्यादिभिः केचित् केचन म्लेच्छभाषया॥ १७२॥
न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत्।
सङ्कीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्॥ १७३॥
वदन्ति संस्कृतं देवा प्राकृतं किन्नरादयः।
पैशाचाद्यं पिशाचाद्या मागधं हीनजातयः॥ १७४॥
केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः।
काले श्रीसाहसाङ्कस्य के न संस्कृतवेदिनः॥ १७५॥
नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया।
कथा गोष्ठीषु कथयन् लोके बहुमतो भवेत्॥ १७६॥