समर्पकत्वं वाक्यस्य यत्तु सर्वरसान् प्रति।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः॥ १३३॥
सेयं गुणानां रसारम्भकत्वे सङ्कराप्रसिद्धिः। एवं रसानां गुणारम्भकत्वेऽपि। तद्यथा — रूढाहङ्कारतौर्जित्यं, भावतो वाक्यवृत्तिर्भाविकत्वं, क्रोधादावप्यतीव्रता माधुर्यम्, आशयोत्कर्षः उदात्तत्वम्, अर्थस्याभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति। यत्र तु तिलतण्डुलवत् क्षीरनीरवच्छायादर्शवच्च तुल्यकक्ष्यतयैव गुणरसानां वाक्ये पृथक्प्रयत्ननिर्वर्त्यानां विनिवेशस्तत्र सङ्करव्यवहारः प्रवर्तत एव।
स षोढा— गुणप्रधानः, रसप्रधानः; उभयप्रधानः, उभयाप्रधानः, गुणाधिकः, रसाधिक इति। तेषु
गुणप्रधानो यथा— (विसा. १.१९)
अत्रान्तरे ललितहारलतानितम्बसंवाहनस्खलितवेगतरङ्गिताङ्गी।
देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः॥ १३४॥
अत्रार्थप्राकट्यौदार्ययोरर्थशब्दगुणयोः प्राधान्यम्, न रतिक्रोधयोरिति गुणप्रधानः।