अत्र स्वादुक्रूरमसृणक्लैब्यमित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अभिनव— वधूरोषादीनां चतुर्णामप्यर्थानां स्वाद्वादीनां च लक्षणादिलक्षितानां प्राकट्यं प्रसादः, अभिनववधूरोषस्वादुः करीषतनूनपात् इति विशेषणविशेष्याणामुपक्रमक्रमेण निर्वहणं रीतिः, पादचतुष्ट्ये चतुर्णामप्यर्थानां विभज्य समत्वेन निवेशः सम्मितत्वामिति चत्वारो गुणाः, चत्वारश्च रत्यमर्षविषादजुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्युभयाप्रधानः।
अजननिरस्तु विभूतेरपूरणिर्भवतु सर्वकामानाम्।
मा याचिषि मा सेविषि मा सहिषि पराभवं धनिनः॥ १३८॥
अत्र सुप्तिङ्व्युत्पत्तिः सौशब्द्यम्, वाक्यानां परिपूर्णत्वमर्थव्यक्तिः, अर्थस्य प्राकट्यं प्रसादः, विभूतेरनुत्पत्तौ कामा न पूर्यन्ते, अपरिपूर्णकामो याचते, याचमानस्तदनाप्नुवन् धनिनः सेवते, सेवमानस्तु तैः परिभूयत इत्युत्पत्त्यादिक्रियाक्रमो रीतिरिति गुणाश्चत्वारः, रसस्तु निर्वेद एवैक इति गुणाधिकः।
अत्र 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्यन्य— धर्माणामन्यत्रारोपणं समाधिः, 'सा च सुकुमारसुभगेत्युत्पातपरम्परा केयमि'— त्यश्लीलामङ्गलार्थौ दोषगुणावपि, श्लाघ्यविशेषणयोग उदात्तत्वम्, बन्धविकट— त्वमुदारता, उपक्रमाभेदो रीतिः, अर्थस्य प्राकट्यं प्रसादः, अनिष्ठुरता सौकुमार्यं, अभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति गुणा दश, रसास्तु रत्युत्कर्षहर्षधृत्युत्कण्ठा— वेगविस्मयमतिवितर्कचिन्ताचपलताहासोत्साहस्तम्भगद्गदोन्मादव्रीडावहित्थभयशङ्का विंशतिर्वागारम्भानुभावे श्रृङ्गारिणः प्रियाचाटुकारस्य कस्यचित् प्रतीयन्त इति रसाधिकः।
ननु चान्यधर्माणामन्यत्रारोपणं समाधिः। इह तु कमलमनम्भसि इत्यादौ धर्मिण एवाध्यासे तद्भावापत्तौ कथं समधित्वोपपत्तिः।