दोषगुणेषु तु—(काव्याद. १.९५)
निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्।
अतिसुन्दरम्, अन्यत्तु ग्राम्यकक्षां विगाहते॥ १४२॥
पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः॥ १४३॥
इति हृद्यम्; अहृद्यं तु निष्ठीवति वधूरिति।
युगपन्नैकधर्माणामध्यासोऽलङ्कृतिर्यथा ॥ १४४॥
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः।