अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्भावापत्तौ समाधेरिह प्राधान्यं प्रतीयते।
ननु चायमर्थस्य प्राकट्यात् प्रसादोऽर्थगुणः कस्मान्न भवति?
अतस्मिन्नपि तद्व्यपदेशेन शब्दशक्तेराधिक्यात्।
ननु च'त्वयि इति, एष इति अस्य इति युष्मदेतदिदमां न कश्चन विष्णुवाची; स कथं वर्णनीये अध्यस्तमर्थमभिदधीत,
सर्वनामत्वेनैषां सर्ववाचित्वात्। सर्वनामानि हि सर्वाभिधायीन्यपि प्रकरणाधि /?/गम्यं विशेषमेव ब्रुवते। स च इह प्राप्तश्रीरित्येवमादिभिरभिव्यक्तमेवावगम्यत इति।
अर्थगुणप्रधानो यथा—(दे.प.घटस्तबे १८)
लक्ष्मीवशीकरणचूर्णसहोदराणि— त्वत्पादपङ्कजरजांसि चिरं जयन्ति।
यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि॥ १४८॥
अत्र हेतुसाम्योभयालङ्कृत्यभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते।