उच्यते— अन्यस्य च धर्माणां चान्यत्रारोपणं समाधिरिति। एतेन गुणालङ्कारसंकरेऽपि षट्प्रकारस्यैव समाधेः प्राधान्यमभिहितं भवति। यदाह—
तदेतत् काव्यसर्वस्वं समाधिर्नाम यो गुणः।
कविसार्थः समग्रोऽपि तमेवमनुधावति॥ १४०॥
स त्रिधा— एकधर्माध्यासेऽनेकधर्माध्यासे धर्म्यध्यासे च। तत्र—
अनेकधर्माध्यासे समाधेरुभयालङ्कारत्वमुक्तम्।
एकधर्माध्यासे समाधिस्तु द्विधा— शब्दगुणरूपो दोषगुणरूपश्च।
शब्दगुणरूपो यथा—(काव्याद. १.९४)
कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च।
इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः॥ १४१॥