रसप्रधानो यथा—(किराता. ५.३३)
अस्मिन्नगृह्यत पिनाकभृता सलीलमारब्धवेपथुरधीरविलोचनायाः।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्त्रस्तोरगप्रतिसरेण करेण पाणिः॥ १३५॥
अत्र श्लाघ्यविशेषणयोग उदात्तत्वम्, बन्धविकटत्वमुदारता, अर्थप्राकट्यं प्रसादः, दीप्तरसत्वं कान्तिरिति गुणाः, साध्वसविलासानुरागसङ्गमरसैरतिशय्यन्त इति रसप्रधानः।
आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम्।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे! स्थित्वा हरिष्यति तवैव मुखस्य लक्ष्मीम्॥ १३६॥
अत्र भणितिविशेष उक्तिः, संविधाने सुसूत्रता श्लेष इति शब्दगुणयोः लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्ष्यतया निर्देश इत्युभयप्रधानः।
अभिनववधूरोषस्वादुः करीषतनूनपात्॰॥ १३७॥ (पृ. ५१६)