शृण्वन्ति लटहं लाटाः प्राकृतं संस्कृतद्विषः।
अपभ्रंशेन तुष्यन्ति स्वेन नान्येन घूर्जराः॥ १७७॥
ब्रह्मन् विज्ञापयामि त्वां स्वाधिकारजिहासया।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती॥ १७८॥
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव।
संस्कारपूतेन वरं वरेण्या वधूं सुखग्राह्यनिबन्धनेन॥
एतद् ग्राह्यं सुरभि कुसुमं ग्राह्यमेतन्न धेयं धत्ते शोभां विरचितमिदं स्थानमेवैतदस्य।
मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम्॥ १८०॥