कवेः पात्रस्य चैतासां प्रयोग उपपद्यते॥ १६७॥
यादृग् गद्यविधौ बाणः पद्यबन्धे न तादृशः।
प्रतिमार्गमियं देवी विचित्रा हि सरस्वती॥ १६८॥
संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः।
शक्यो रचयितुं कश्चिदपभ्रंशेन जायते॥ १६९॥
पैशाच्या शौरसेन्यान्यो मागध्यान्यो निबध्यते।
द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन॥ १७०॥
कश्चिद् गद्येन पद्येन कश्चिन्मिश्रेण शक्यते।
निबद्धुं कश्चन द्वाभ्यां कश्चित्तु पथिभिस्त्रिभिः॥ १७१॥