तथा हि भागे सादृश्यं भागे भेदोऽवसीयते।
भागाभावेऽपि वाक्यानामत्यन्तं भिन्नधर्मणाम्॥ १२३॥
एकस्य भागे सादृश्यं भागे भेदश्च लक्ष्यते।
निर्भागस्य प्रकाशस्य निर्भागेनैव चेतसा॥ १२४॥
अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति।
सर्वत्रासंविदं मूढस्तावति प्रतिपद्यते॥ १२५॥
यतः पिकादियोगेन वाक्येऽत्यन्तविलक्षणे।
सदृशस्येव संज्ञानमसतोऽर्थस्य मन्यते॥ १२६॥
गवये नरसिंहे वाप्येकज्ञानावृते यथा।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते॥ १२७॥