भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 1676 verses
यथैवैकस्य गन्धस्य भेदेन परिकल्पना।

पुष्पादिषु तथा वाक्येऽप्यर्थभेदस्य कल्पना॥ १२८॥

अतोऽखण्डेऽपि वाक्यार्थे शक्तिभेदादपोद्ध‍ृते।

वाक्यान्तरविभागेन यथोक्तं न विरुध्यते॥

(वाप. २.८८–९५)

तस्माद् युक्तैव पदगतदोषगुणनिरूपणेति।

(पददोषाः —१६)

तत्र पदवाक्यवाक्यार्थदोषेषु पददोषाः षोडश—

असाधु, अप्रयुक्तं, कष्टम्, अनर्थकम्, अन्यार्थकम्, अपुष्टार्थकम्, असमर्थम्, अप्रतीतं, क्लिष्टं, गूढार्थं, नेयार्थं, सन्दिग्धं, विरुद्धम्, अप्रयोजकं, देश्यं, ग्राम्यमिति। तेषु —

१. शब्दानुशासनविरुद्धमसाधु, यथा—

Showing 601 to 610 of 1676 verses