भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 746 verses
ननु चायोग्यतायामप्यन्वयो दृश्यते, पचति भवति, पश्य मृगो धावतीति। न हि साध्यैकस्वभावायाः साध्यत्वं साधनत्वं च युज्यत इति।

नैवम्; साध्यत्वेनैव साधनत्वात्। क्रियाभ्युपपत्तिरूपेण भवनस्वभावा साध यस्वभावेनैव कर्मरूपा। यदेव चास्या अनिदन्तानिर्देश्यमपरिनिष्ठितं भवनं साध्यैकरूपं तेनैवैषात्र साध्यभावं साधनभावं च प्रतिपद्यत इति।

सिद्धतावभासः कुत इति चेत्, कर्तर्युत्पन्नो लकारस्तां सिद्धत्वेनावभासयति, यथा चोरस्य रुजतीति धात्वर्थ एव रोगलक्षणः, कर्त्रन्तराश्रवणात् साध्यरूपेणैव कर्तृभावमनुभवसिद्धतयावभासते।

यदि वा पदस्य न पदरूपादेवाधिकार्थता, किं तर्हि?, वाक्यरूपात्; तद्यथा पुरुष इति पदकाले पुरुषो व्यतिरिक्त उच्यते। यदा तु राज्ञः पुरुष इति विशेषसन्नि— धियोग्यस्तदाऽस्य व्यतिरेको भवति, पुरुषविशेषोऽयं राजपुरुष इति। एवं पचतीति नैतस्मात् पदरूपादेवाधिकार्थत्वम्। यदा तु भवतीति पदान्तरसन्निधिः, तदा वाक्यकाले पुरुषस्येव व्यतिरेक उपजायत इति।

यदि वा न कदाचिदपरा तदतिरेकिणी भवनक्रिया, कश्चिदपरो वा कर्ता विरोधहेतुरस्ति। अपि तु सैव व्यपदेशिवद्भावन्यायेन क्रियारूपतां भवितृत्वं च दर्शयन्ती चकास्ति।

अपि चैकस्याप्यर्थस्य विषयभेदेन द्विधर्मत्वं दृश्यते, यथा राज्ञः पुरुषस्य पुत्र इति पुरुषः शेषी च भवति शेषश्चेति राजानं प्रति शेषी अविचलितस्वार्थः पुत्रार्थान्तरे शेषतामापद्यते। एवं भवति पचतीत्यत्र भवतोऽकर्तृत्वं साध्यत्वं च भविष्यति। पश्य मृगो धावतीत्यत्र च मृगे कर्तरि साध्यभावं प्राधान्यं चाजहत्सरणं दृशावङ्गत्वं साधनत्वं च गमिष्यतीति।

अथवा 'अयमर्थः साधनमयं साध्यमि'—ति रूपसिद्धिमात्रमेतत्, यथा पदे अयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति, एक एवासावर्थो विशिष्टो वा (अ)खण्ड एव प्रतीयते, यथा मुण्डयति चर्चयतीति। अत्र मुण्डयति माणवकमिति मुण्डिः केशच्छेदनवचनः। अस्य तु व्युत्पत्तिः मुण्डं करोतीति करोतिसामान्यप्रवृत्तं विशेषे मुण्डशब्दोऽवस्थापयति। करोतिविशेषोऽयं यस्मिण्णिजुत्पद्यते, न करोतिमात्रम्। एवं चर्चां करोति चर्चयतीति। अत एव केचिन्मुण्डिचर्चादीन् चुरादिषु पठन्ति मुण्ड केशखण्डनेषु मुण्डयति चर्चयतीति।

एवं पश्य मृगो धावतीति 'इदमत्र साधनपदमिदं साध्यमि'—त्युत्प्रेक्षैषा। इदं त्वर्थसतत्त्वम्—'नात्र सरणं, न दर्शनं, न मृगः, किं तर्हि? मृगकर्तृको दृशिकर्मा सरणविशेषोऽयम् अखण्डो वाक्यार्थ इति। एतेन पुत्रमिच्छति पुत्रीयतीत्यादयोऽपि व्याख्याताः॥

(८. एकार्थीभावः)

व्यपेक्षावतां समर्थानामन्वितार्थानां च पदार्थानां तिलतण्डुलवत् क्षीरनीरवत् पांसूदकवच्च यदविभागरूपेण भवनं स एकार्थीभावः। लक्षणं चैतत् समस्तं व्यस्तं च। तेन सापेक्षासमर्थसमासादीनामुपसङ्ग्रहः।

Showing 601 to 610 of 746 verses