अपि च प्रकृतिप्रत्ययौ हि परस्परसापेक्षमर्थमभिदधाते। न च प्रकृत्या प्रत्ययार्थोऽभिधीयते, नियोगस्य धातुवाच्यत्वात्। न च प्रत्ययेन प्रकृत्यर्थोऽभिधीयते, यज्यादेर्लिङाद्यर्थानुपंपत्तेः। न च तौ पृथक् स्वकार्यं कुरुतः। एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति। न च परस्परस्यार्थमभिधास्यन्ति, वाक्यान्यपि प्रकरणपतितान्येवमेव। तदुक्तम्— (श्लोवा.)
प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम्।
पदं पदान्तरं यद्वद् वाक्यं वाक्यान्तरं तथा॥ १०२॥
अयमेव च पक्षः श्रेयान्। संहत्यकारित्वं पदार्थानाम् असङ्कीर्णार्थत्वं च (न्यायमं.)
निरपेक्षप्रयोगेऽयःशलाका कल्पना भवेत्।
तदन्विताभिधाने तु पदान्तरमनर्थकम्॥ १०३॥
संहत्यकारिपक्षे तु दोषो नैकोऽपि युज्यते।
तेनायमुपगन्तव्यो मार्गो विगतकण्टकः॥ १०४॥
अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठिता।