भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 581 to 590 of 746 verses
अपि च प्रकृतिप्रत्ययौ हि परस्परसापेक्षमर्थमभिदधाते। न च प्रकृत्या प्रत्ययार्थोऽभिधीयते, नियोगस्य धातुवाच्यत्वात्। न च प्रत्ययेन प्रकृत्यर्थोऽभिधीयते, यज्यादेर्लिङाद्यर्थानुपंपत्तेः। न च तौ पृथक् स्वकार्यं कुरुतः। एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति। न च परस्परस्यार्थमभिधास्यन्ति, वाक्यान्यपि प्रकरणपतितान्येवमेव। तदुक्तम्— (श्‍लोवा.)

प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम्।

पदं पदान्तरं यद्‍वद् वाक्यं वाक्यान्तरं तथा॥ १०२॥

इति।

अयमेव च पक्षः श्रेयान्। संहत्यकारित्वं पदार्थानाम् असङ्कीर्णार्थत्वं च (न्यायमं.)

निरपेक्षप्रयोगेऽयःशलाका कल्पना भवेत्।

तदन्विताभिधाने तु पदान्तरमनर्थकम्॥ १०३॥

संहत्यकारिपक्षे तु दोषो नैकोऽपि युज्यते।

तेनायमुपगन्तव्यो मार्गो विगतकण्टकः॥ १०४॥

अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठिता।

Showing 581 to 590 of 746 verses