तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः॥ १०५॥
तेनान्विताभिधानं हि नास्माभिरिह मृष्यते।
अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते॥ १०६॥
संहत्यकारित्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणं, अपि तु प्रधानकार्यमेव कर्तुम्। तदुक्तम्—
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम्।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ १०७॥
तस्मान्नान्विताभिधानं नाप्यभिहितानामन्वयः। किंतु यथोपन्यस्तपक्ष एव श्रेयानिति॥
तदेवमाकाङ्क्षासन्निधियोग्यतावन्तः पदार्थाश्चतुष्प्रकारमन्वयमनुभवन्तो वाक्यार्थीभवन्ति।