पदान्यन्वितं प्रत्यायन्ति, नाभिदधतीति; इयं नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतरेकावगतनिष्कृष्टस्वार्थविषयैव। तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सहव्यापारात्, व्यापारस्य तदीयनिराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात्। तथा हि—
अन्यथैव मतिश्शाब्दी विषयेषु विजृम्भते।
प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनावधिः॥ १००॥
अत एव पदं लोके केवलं न प्रयुज्यते।
न हि तेन निराकङ्क्षा श्रोतुराधीयते मतिः॥ १०१॥
नन्वभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्नफलपर्यन्तप्रत्यायनात्मा व्यापारः?
अस्ति कश्चिद् यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः। न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात्।
ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते, नान्यथा।
नैतदेवम्, संहत्यकारित्वादेव संसर्गावगमसिद्धेः। न हि संहत्यकरणम् असंसृष्टं च कार्यं क्वचिद् दृश्यते।