एतदपि न सम्यक्। सामान्यान्विताभिधानवादिनो हि मते पदानि तावत् तन्मात्रपर्यवसितशक्तीनि; पदार्थानामपि चान्वयबोधनशक्तिर्नाङ्गीक्रियते। न च सामान्याक्षेपोऽपि नियतविशेषमास्कन्दति। तेनाकाङ्क्षिते योग्ये च विशेषपदान्तरेण सन्निधापिते तदन्वयबोधकप्रमाणाभावादन्वयो न प्रतीयते। अत आकाङ्क्षासन्निधि— योगयत्वान्यनुपयोगीन्येव।
विशेषान्विताभिधानवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेनानुप्रविष्टानि वाक्यार्थप्रतिपत्तावुपयुज्यन्ते। पदात् पदार्थः पदार्थान्तरसम्बन्धो बोद्धव्य इत्यस्यां व्युत्पत्तावुपाधित्वेन योग्यत्वादिकर्मानुप्रविशद्विशेषान्विताभिधानवादिनः पक्षमपाकरोति, न सामान्यान्विताभिधानवादिन इति। किंच क्रियाकारकस्वभावालोचनयापि कारकमात्रेणा— न्वयसिद्धेर्वृथा सामान्यमात्रान्वयाभिधायकता शब्दस्याङ्गीक्रियते। तस्मात् तदुक्त एव न्यायः श्रेयान्, सामान्येनान्विताभिधानं, विशेषेणाभिहितान्वय इति।
युक्तं चैतत्, पदस्य प्रकृतिप्रत्ययात्मकत्वात्। पदे हि पचतीत्यादौ प्रकृत्यर्थः प्रत्ययार्थश्च सामान्यविशेषावगमरूपमन्योन्यान्वितं प्रतीयते। तत्र पचित्येषा प्रकृतिः सिद्धसाध्यत्वादिधर्मविनिर्मुक्तं प्रत्ययार्थमात्रान्वययोग्यं पाकसामान्यमात्रमभिदधाति। अतिप्रत्ययस्तु पौर्वापर्यनियमान्न प्रकृतिवत् स्वतन्त्रः सामान्यमात्रे धियमादधाति; अपि तु प्रकृतार्थापेक्षयाऽऽचक्षाणः स्वार्थं विशेषमेव समर्पयतीति।
अनुभयवादिनः पुनरित्थं समर्थयन्ते— नान्विताभिधानं, न चाभिहितान्वयः, किं तर्हि? समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते। स च गुणभूतेतरपदार्थसंसृष्टः कश्चित् पदार्थ एवेति।
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः?
मैवम्; नेदमन्विताभिधानम्। किं तर्हि संहत्यकारिता पदानाम्?
उच्यते— 'संहत्यकारिताप्यस्ति, न चान्विताभिधानम्, अन्वितमर्थं पदानि संहत्य संपादयन्ति, न त्वन्वितमभिदधति।
किमिदानीं कुर्वन्ति वाक्यार्थं पदानि, घटमिव मृदादीनि?
एतदपि नास्ति, ज्ञापकत्वात् तेषाम्।
का तर्हीयं वाचोयुक्तेः संहत्यकारीणि पदानि, न चान्वितमभिदधतीति?