शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि
क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः॥ ११५॥
श्रौतार्थस्थानमुख्यसङ्करो यथा—
आयाते दयिते मरुस्थलभुवां सञ्चिन्त्य दुर्लङ्घतां
गेहिन्या परितोषबाष्पतरलामासज्य दृष्टि मुखे।
दत्त्वा पीलुशमीकरीरकबलान् स्वेनाञ्चलेनादरा—
दुन्मृष्टं करभस्य केसरजटाभाराग्रलग्नं रजः॥ ११६॥
श्रौतार्थपाठप्रवृत्तिसङ्करो यथा—
दृष्टे लोचनवन्मनाङ् मुकुलितं पार्श्वस्थिते वक्त्रतव्॥ ११७॥