भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 581 to 590 of 1676 verses
इत्यादरेण कथितौ रघुनन्दनेन

व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे॥ १२०॥

वयःश्रुतादिभिरपि यथा—(राच. १५.३६)

मूर्ध्‍ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती—

नाश्वास्याश्रुमुखान्मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।

आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने

रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १२१॥

तदेवमेते ये पुरस्तादुपवर्णिताः ये चैवंप्रकाराः समाहारेतरेतरयोगैक— शेषान्वाच्यादयो वाक्यगतानां पदार्थानामनुग्राहिणो धर्माः ते सर्वेऽप्यविद्यमाने— द्देशविभागेन एकेन वाक्याख्येन शब्देनाभिधीयमानेऽवयवाभावाद् अनपोद्धार्य— शक्तिमात्रपरिग्रहे क्रियात्मन्येव केवले प्रतिज्ञाय माने न सम्भवन्ति। तस्मात् प्रविभक्तरूपाणामप्यव्यभिचरितावाधि विभागानां चतुर्णां पञ्चानां वा पदजातानाम् असङ्कीर्णैर्वाच्यद्योत्यगमनीयैरर्थैर्भवितव्यमिति। यस्याप्येकः सन्निविष्टानेकशक्तिरूप— सर्वोपाधिविशिष्टः क्रियात्मा व्यावहारिकाभ्यां अन्वयव्यतिरेकाभ्यां प्रकल्पितोद्देश— विभागेनैकेन वाक्याख्येन शब्देनाभिधीयते, तस्यापि यावानयं पदश्रुतिरूपभेदेन पदार्थरूपभेदेन च व्यवहारः पुरस्तादुपन्यस्तः स सर्व एकस्मादर्थात् श्रुतिरूपाणि बुद्ध‍यन्तरैः कृतप्रविभागान्यपोद्ध‍ृत्यायोद्ध‍ृत्य प्रकृतिप्रत्ययादिवत् श्रुतिरूपप्रविभागे क्रियमाणे न विरुध्यते। तत्र च—

रूपनाशे पदानां स्यात् कथं चावधिकल्पना।

अगृहीतावधौ शब्दे कथं चार्थो विविच्यते॥ १२२॥

Showing 581 to 590 of 1676 verses