आदिग्रहणाद्विप्रकर्षादिभिरपि श्रुत्यादिक्रमसम्भेदो यथा—(माघ. १.३)
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः॥ ११८॥
प्राधान्यादिभिरपि यथा—कुसं. ७.४६
कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरि वृत्रहणं स्मितेन।
आलोकमात्रेण सुरानशेषान् सम्भावयामास यथाप्रधानम्॥ ११९॥
औचित्यादिभिरपि यथा—(रघु. १३.७२)
दुर्जातबन्धुरयमृक्षहरीश्वरो मे
पौलस्त्य एष समरेषु पुरः प्रहर्ता।