इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारान्न दीप्यते॥ १५९॥
गतयस्तस्य यास्तिस्त्रो द्रुतमध्यविलम्बिताः।
लयान् पदगतेः प्राहुस्तान् गीते गीतवेदिनः॥ १६०॥
रीतयो वाङ्मयप्राणा हृदयं तस्य वृत्तयः।
रचनादित्रयं मूर्तिरनुप्रासस्तु जीवितम्॥ १६१॥
उक्तयो दैवतं छायामुद्राभणितयो वृतिः।
पठितिः श्रव्यता प्रेक्षाभिनयोऽध्ययनं धृतिः॥ १६२॥
श्लेषः पुष्णाति सर्वासु प्रायो वक्रोक्तिषु श्रियम्।
वाकोवाक्येन हृष्यन्ति मनांसि कृषतामपि॥ १६३॥