अत्र चम्पकानां प्रदीपशिखाभिराकारकान्तिभ्यामुपमा, विरहिणीहृदयदाहोद्यान— द्योतनार्थक्रियाभ्यां साम्यं, कज्जलपटलानामिव भ्रमरपटलानामुपरिमेलनान्मेलितं, चम्पकप्रदीपकलिकयोरिव भ्रमरकज्जलपटलयोरप्यौपम्यादिसम्बन्धात् समुच्चय इत्युभयालङ्काराश्चत्वारो मिथः सङ्कीर्यन्ते।
शब्दार्थालङ्कारसङ्करो यथा—
सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि।
शुष्यत्स्त्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ! व्रजन् जीवसि॥ १२५॥
अत्रावन्त्या रीतिः, पदमुद्रा, विभक्तिमुद्रा, अनुप्रासश्चेति शब्दालङ्काराः; जातिः, कारकज्ञापकहेतू चित्रंहेतुश्चेत्यर्थालङ्काराः मिथः सङ्कीर्यन्ते।
शब्दोभयालङ्कारसङ्करो यथा—
स्तोकस्तोकममूभिरम्बरतले तारामिरस्तं गतं गच्छत्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी।
प्रत्यासन्नतरोदयस्य तरणेर्बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति॥ १२६॥
अत्र च्छायादरिद्रः मञ्जिष्ठारसलोहिनीति पदमुद्रा, ताराभिरस्तं गतं प्राची समुन्मीलतीति विभक्तिमुद्रा, तदनु च दिगपि चेति समुच्चयमुद्रा, स्तोकस्तोकमस्तं गतं गच्छतीत्यादिरनुप्रासश्च शब्दालङ्काराः, हेतूपमासमाधिरर्थक्रमः, समुच्चयोक्तिश्चेत्युभयालङ्कारा मिथः सङ्कीर्यन्ते।
अर्थोभयालङ्कारसङ्करो यथा—