भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 571 to 580 of 2002 verses
अपश्यद्भिरिवेशानं रणान्निववृते गणैः।

मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमज्वरितं मनः॥ १३१॥

(४. सन्ध्यन्तराणि—२१)

अथ सन्ध्यन्तराण्येकविंशतिः। तद् यथा—

साम, भेदः, दण्डः, प्रदानम्, वधः, प्रत्युत्पन्नमतित्वम्, गोत्रस्खलितम्, साहसम्, भयम्, ह्रीः, माया, क्रोधः, ओजः, संवरणम्, भ्रान्तिः, हेत्ववधारणम्, दूतः, लेखः, स्वप्नः, चित्रम्, मद इति। तत्र

४०.(४.१) साम यथा— पार्थविजये भगवान् वासुदेवो दूत्येन गतो दुर्योधनमाह—

क्षीरोदादमृतद्युतिः क्षितिभुजां वंशस्ततो भारतः

श्लाघ्यः श्लाघ्यगुणश्च किं च बहुना यत्रोद्भवस्त्वादृशाम्॥ १३२॥

इत्यादि

४१.(४.२) भेदो यथा मुद्राराक्षसे—

Showing 571 to 580 of 2002 verses