भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 561 to 570 of 2002 verses
उत्थापकः, परिवर्तकः, संलापकः, संघात्यक इति चत्वारि सात्त्वत्यङ्गानि। तेषु ३६.(३.१३) परस्परीभूतार्थेषु उत्थापनम् उत्थापकः। यथा—(मवीच. २.४९)

प्रहर नमतु चापं प्राक्‌प्रहारप्रियोऽहं मयि तु कृतनिघाते किं विदध्यात् परेण।

झटिति विततवह्नयुद्‍गारभास्वत्कुठार— प्रविघटितकठोरस्कन्धबन्धः कबन्धः॥ १२८॥

३७.(३.१४) प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः। यथा—(किराता. १०.४०)

मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन।

मदनमुपदधे स एव ताभ्यो दुरधिगमा हि गतिः प्रयोजनानाम्॥ १२९॥

३८.(३.१५) सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः। यथा—(वेसं. ३.३५)

कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य।

तव भुजबलदर्पाध्मायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम्॥ १३०॥

३९.(३.१६)कार्यमन्त्रार्थप्रभावदैवादिभिः संघातभेदः संघात्यकः (नाशा. २०.४९)। यथा— (किराता.१५.२)

Showing 561 to 570 of 2002 verses