भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 541 to 550 of 2002 verses
यथा—(वेसं. ३.४२)

कृष्टा येन विलोलकेशनिवहा पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां कुरूणां पुरः।

यस्योरस्स्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्‍भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः!॥ १२३॥

(कैशिक्यङ्गानि—४)

नर्म, नर्मस्फिजः, नर्मस्फोटः, नर्मगर्भ इति चत्वारि कैशिक्यङ्गानि। तेषु —

३२.(३.९) आस्थापितश्रृङ्गारं वचो विचेष्टितं वा सपरिहासं नर्म। यथा—(मामा. ६.९)

वयं तथा नाम यदात्थ किं वदा— म्ययं त्वकस्माद् विकलः कथान्तरे।

कदम्बगोलाकृतिमन्त्रितं/माश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः॥ १२४॥

३३.(३.१०) प्रथमसम्भोगे नवावस्थानं सम्भोगाश्रयवाक्यादिकर्म नर्म संज्ञा स्फिजः। यथा—

प्राप्‍ताऽसौ वृषपर्वणः प्रियसुता सङ्केतषण्डं सखे! वृष्टिः सेयमनम्बुदामृतमयी गात्राणि मे सिञ्चति।

Showing 541 to 550 of 2002 verses