यूथायितमवतु हरेः क्ष्मामुद्धरतो वराहवपुषो वः।
शेषफणरत्नदर्णणसहस्त्रसङ्क्रान्तबिम्बस्य ॥ ११७॥
२६.(३.३) प्रवृत्तको यथा—(छलितरामके.)
आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव सम्भृतबन्धुजीवः॥ ११८॥
अमुमेव शरत्समयमधिकृत्य गीयताम्। अस्यां हि शरदि—(वेसं. १.५)
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ ११९॥