संक्षिप्तिका, अवपातः, वस्तूत्थापनं, संस्फोट इति चत्वार्यारभट्यङ्गनि। तेषु २८.(३.५) मायेन्द्रजालशिल्पनैपथ्यादिभिः वस्तुसंक्षेपः संक्षिप्तिका।
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥ १२०॥
२९.(३.६) भयादिभि विद्रवादिकर्मसु प्रवेशनिर्गमनमवपातः।
मृगरूपं परित्यज्य विधाय विकटं वपुः।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम्॥ १२१॥
३०.(३.७) अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम्। यथा— राहोश्चन्द्रकलाम् इत्यादि॥१२२॥ (मामा. ५.२८, पृ. ६३८)
३१.(३.८) नानास्त्रयुद्धनियुद्धादिभिः संरम्भसंप्रहारः संस्फोटः।