न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्जया।
शोकस्तातविपत्तितो दहति मां नास्त्येव यस्मिन् क्रिया मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति॥ ११६॥
अत्रामर्षलज्जाशोकप्रीतयः समकक्ष्यतया मिथस्तिलतण्डुलवत् सङ्कीर्यमाणा रामस्य विरहिणो वागारम्भानुभावोक्तिपरतया प्रतीयन्ते।
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं॥ ११७॥
अत्र श्रृङ्गारकरुणौ हरप्रभाववर्णनायां मृत्पिण्डे पांसूदकवत् प्रधानाङ्गभावेन संकीर्तेते।
आः सीते! पतिगर्वविभ्रमभरभ्रान्तभ्रमद्वान्धव॰॥ ११८॥