झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥ १२१॥
अत्र वीरैद्धत्यस्वातन्त्र्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमाणानां पट इव नीलादिभिः सितादीनां प्रशमे रामदर्शनप्रभावोद्भवे लवस्य विस्मयातिशयप्रशमजन्मनि वागारम्भानुभावोपमादौ चित्रवर्णवत् सङ्कीर्यमाणः समुपलभ्यते।
अथालङ्कारसङ्करः। स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्ष्यताभ्यां पुरस्तादुक्तः, तथापि तेषां गुणादिसङ्करसाधारणत्वात् सम्प्रत्यसाधारणः प्रकार उच्यते।
स षोढा— 'शब्दालङ्कारसङ्करः, अर्थालङ्कारसङ्करः, उभयालङ्कारसङ्करः, शब्दार्थालङ्कारसङ्करः, शब्दोभयालङ्कारसङ्करः, अर्थोभयालङ्कारसङ्कर' इति। तेषु
हंसाली भयतरला सारासरसा सराससारसरासा।
अम्बरतलमारूढा सारासरसा सराससारसरासा॥ १२२॥
अत्र संस्कृतप्राकृतभाषाश्लेषः गतप्रत्यागतं चित्रं पादावृत्ति यमकं वर्णानुप्रासश्चेति चत्वारः शब्दालङ्काराः सङ्कीर्यन्ते।