भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 551 to 560 of 2002 verses
किं जानासि विनोदयिष्यसि मनः सन्तप्‍तमेषा च मे

विदूषकः— दुर्वात्येव विनोदयिष्यति न भोस्तां देवयानी यदि॥ १२५॥

३४.(३.११) आविर्भूताभिलाषानुभावयोरकाण्ड एव सम्भोगभङ्गो नर्मस्फोटः।

यथा— (रघु. ७.६७)

इतः परानर्भकहार्यशस्त्रान् वैदर्भि ! पश्यानुपता मयाऽसि।

एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ १२६॥

३५.(३.१२) कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः। यथा— (कुसं. ५.३०)

अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन वर्चसा।

विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा॥ १२७॥

(सात्त्वत्यङ्गानि—४)

Showing 551 to 560 of 2002 verses