शब्दगुणानाम् अर्थगुणानां च सङ्करो यथा—
को नाम नोदयति नास्तमुपैति को वा लोकोत्तरः पुनरयं सविता जगत्सु।
यत्रोदयास्तमयभाजि रुचां निधाने द्वेधा भवत्यहरिति क्षणदेति कालः॥ ११३॥
अत्र यावदर्थपदता सम्मितत्वं, बन्धविकटत्वमुदारता, श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणाः; उक्तार्थनिर्वहणं प्रौढिः, अर्थस्य प्राकट्यं प्रसादः, रूढाहङ्कारतैर्जित्यमित्यर्थगुणाश्च सङ्कीर्यन्ते।
शब्दगुणानां दोषगुणानां च यथा—
एह्येहि वत्स! रघुनन्दन! पूर्णचन्द्र! चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते॥ ११४॥ (मवीच. १.५५)
अत्र भवतो वाक्प्रवृत्तिर्भाविकत्वं, प्रसिद्धार्थपदता प्रसादः, प्रेयार्थपदोपाख्यानं प्रेय इति शब्दगुणाः, एह्येहीति पुनरुक्तं, वत्सेत्युक्त्वा त्वत्पादाब्जद्वयं वन्द इति विरुद्धं, मूर्ध्नि चुम्बामि हृदि वहामि पादौ वन्द इति क्रियास्वनुपयोगात् पूर्णचन्द्रेति दर्शनादिक्रियोपयोगि व्यर्थं चेति दोषगुणाः परस्परं सङ्कीर्यन्ते। रसाक्षेपादौ हि पुनरुक्तादयो न दुष्यन्ति।