उद्धातः(त्यकः)/कथोद्घातः, प्रयोगातिशयः, प्रवृत्तकोऽवलगितमिति भारत्यङ्गानि। तत्र —
१. अत्र राघवपाठः विदूषकः— कुदो एत्ति उत्ती आ भि पडिगिण्हिसि। एदं एव्व पसाधिअ विरल विण्णि अंगुली करिइअ अंजलिउडं तहु क्खिदाए विलपज्जरविहीए मं स पेसी वितिणो तावती एसा मुक्तावली अक्खित्तो। २. 'प्रत्यङ्गानि' जोशेरः
२४.(३.१) उद्घात्यको यथा—
को जयति? जयति शर्वः; केन जितं? जितमनङ्गदहनेन।
त्रिपुरारिणा भगवता बालशशाङ्काङ्कितजटेन॥ ११५॥
साकं पङ्कजजन्मना सुरपतेरभ्यर्थनाया वशा— दिक्ष्वाकोः शरदिन्दुबिम्बविमले वंशेऽवतीर्य स्वयम्।
निश्शोषाभयदस्त्रयीपथजुषां विद्वेषिणां रक्षसां यः पौलस्त्यमहन् स पातु भवतो रामाभिधानो हरिः॥ ११६॥
२५.(३.२) प्रयोगातिशयो यथा—