विदूषकः—अहो !अदिरूआ अज्जया॥ (अहो ! अतिरूपा आर्या॥)
एकस्य वाऽर्थहेतोः—यथा मृच्छकटिकायाम्—
नायकः—(मैत्रेयं दृष्ट्वा) दिष्ट्या भवान् दृश्यते?
विदूषकः— सट्टु x x x x x कं चोरकं तो रा दोणी समिदुण्ण तारि सादो गणिआ—कं ता रा दो। क्खु उच्चदि—अकंदसमुत्थिता पउमिणी, अवञ्चओ वाणिओ, अचोरो सुवण्णआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअन्ति। ता पिअवअस्सं गदुअ इमादो गणिआपसङ्गादो णिवत्तावेमि। (परिक्रमय दृष्ट्वा) कथं पिअवअस्सो रुक्खवाडिआए उवविट्टो चिट्ठदि। ता जाव उवसप्पामि। (उपसृत्य) सोत्थि भवदे। वड्ठढदु भवं।
नायकः — वयस्य ! कथय वृत्तान्तम्१।
विदूषकः — तं क्खु कज्जं विणठ्ठं।
चारुदत्तः — किं तया न गृहीता सा रत्नावली?
विदूषकः — कुदो अम्हाणं एत्तिअं भाअहेअं। णवणलिणकोमलं अंजलिं मत्थए कदुअ पडिच्छिआ॥ ११४॥