यथा प्रयोगद्वये (प्रयोगाभ्युदये)—
तरङ्गदत्तकचेटी— अम्मो! अयं क्खु एसो संचारिमं अवहासपट्टणं अय्भंडीरवो इदो य्येव आगच्छदि। (अहो! अयं खल्वेष सञ्चरिष्णूपहासपत्तनमार्यभण्डीरव इत एवागच्छति।)
विदूषकः— (उपसूत्य) भोदी! सागदं दे। (भवति! स्वागतं ते।)
चेटी—(स्वगतम्) परिहासइस्सं दाव णं। (परिहासयिष्यामि तावदेनम्।) (प्रकाशम्) को दाणि एसो अम्हाणं पेसणआरओ चेडउ त्ति?। (क इदानीमेषोऽस्माकं प्रेषणकारश्चेटक इति?)
विदूषकः—अहं घटदासीणं सामिणो। (अहं घटदासीनां स्वामी।)
चेटी — किं चेडउ त्ति भणिदे कुविदो तुमं? (किं चेटक इति भणिते कुपितस्त्वम्?)
विदूषकः —को दाणि विसेसो घटदासीणं कुंभदासीणं च? (क इदानीं विशेषो घटदासीनां कुम्भदासीनां च?)
चेटी— मा कुप्प, भट्टउत्तो त्ति भणिस्सं। (मा कुप्य, भट्टपुत्र इति भणिष्यामि।)
विदूषकः — भोदी! तुवं पि मा कुप्प, अज्जा इत्ति भणिस्सं। (भवति, त्वमपि मा कुप्य, आर्या इति भणिप्यामि।)
चेटी—अहो! भट्टपुत्तस्स गदी! (अहो! भट्टपुत्रस्य गतिः!)