गुणस्य दोषीकरणं यथा—मालतीमाधवे— (मामा. ६.१५/१६)
पुरश्चक्षूरागस्तदनु मनसोऽनन्यपरता— तनुग्लानिर्यस्य त्वयि समभवद् यत्र च तव।
युवा सोऽयं प्रेयानिह सुवदने! मुञ्च जडतां विधातुर्वैदग्ध्यं विलसति सकामोऽस्तु मदनः॥ १११॥
लवङ्गिका—भअवदि! किसण—चउद्दसीरअणीमसाणसंचारणिपडिद णिव्वत्तिअ विसमववसाअणिट्ठाविदचंडपासंडवअंडदोद्दंडसाहसो साहसिओ क्खु एसो। अदो पिअसही उक्कंपिदा।
(भगवति! कृष्णचतुर्दशीरजनीश्मशानसञ्चारनिपतित विषमव्यवसाय— निष्ठापितचण्डपाषण्डप्रचण्डदोर्दण्डसाहसः साहसिकः खल्वेषः। अतः प्रियसखी उत्कम्पिता।)
कामन्दकी—साधु लवङ्गिके! साधु। अवसरे खलु अनुरागोपकारयोर्गरी यसोरुपन्यासः॥ ११२॥ (मामा. ६.१५)
यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु।
एकस्य वाऽर्थहेतोः स हास्यजननः प्रपञ्चस्तु॥ ११३॥(नाशा. १८.११२)