तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥ १०७॥
आपृष्टासि व्यथयसि मनो दुर्बला वासरश्री— रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकी।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥ १०८॥
एवमवस्थापिते गुणरसतदाभासभावानामलङ्कारत्वे षट्प्रकारोऽलङ्कारसङ्कर सम्भवति— गुणसङ्करः, रससङ्करः, अलङ्कारसङ्करः, गुणरससङ्करः, गुणालङ्कारसङ्करः, रसालङ्कारसङ्कर इति।
ननु च गुणानां सङ्करव्यवहारो नोपपद्यते, बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात्।
नैवम्; त्रिविधा गुणाः शब्दगुणा, अर्थगुणा दोषगुणाश्च।
ते तु प्रत्येकं द्विधा उल्लेखवन्तो निरुल्लेखाश्च। तत्र —