तत्किं सेवकवध्वा हसित्वावलोकितं शयनम्॥)
निरीक्षितमनेनेह पुरुषायितलक्ष्म च।
पादलाक्षादिकं तेन नियुङ्क्ते मां न कर्मणि॥ १३२॥
स्वरस्थानवर्णगतिबन्धाकारनियमश्चित्रम्। तत् षोढा स्वरादिनियमभेदात्। तेषु— चतुस्स्वरं यथा—(काव्याद. ३.८४)
आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीभीतीः।
भोगो रोगो मोहो मोदो ध्येये वेच्छेत् क्षेमे देशे॥ १३३॥
त्रिस्थानं यथा—(काव्याद. ३.८९)