कोऽयं द्वारि? हरिः, प्रयाह्युपवनं शाखामृगस्यात्र किम् ?
कृष्णोऽहं दयिते! बिभेमि सुतरां कृष्णः कुतो वानरः ?
मुग्धेऽहं मधुसूदनो, व्रज लतां तामेव तन्वीमलं
मिथ्या सूचयसीत्युपेत्य धनिकां ह्रीतो हरिः पातु वः॥ १०६॥
वसन्तसेना — कधं परिअणो त्ति मं अवगच्छदि। होदु, एव्वं दाव करइस्सं। (गृह्णाति, आघ्राय) अणुदासीणं से जोव्वणं पडिहासेदि—(अनुदासीनमस्य यौवनं प्रतिभासते।)
नायकः — रदनिके! रोहसेनं गृहीत्वा अभ्यन्तरचतुश्शालं प्रवेशय।
वसन्तसेना — अणब्भंतरा क्खु अहं अब्भंतरचउस्सालस्स। (अनभ्यन्तरा खल्वहं अभ्यन्तरचतुश्शालस्य।