कञ्चुकी—(सभयं) ननु कथयामि, भग्नं भीमेन भवतः— दुर्योधनः—हा धिक्, प्रलापिन्, वृद्धापसद, कोऽयममद्य ते व्यामोहः? कञ्चुकी—देव न खलु कश्चिद् व्यामोहः, सत्यमेवम्—॥ १०२॥
भग्नं भीमेन भवतो मरुता रथकेतनम्।
पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ॥ १०३॥
ननु च बहोः वक्ष्यमाणस्य अशुभवार्ताबहुलमत्वर्थो(?) बहुवचनाक्षेपकृतं गण्डमित्यनेनोच्यते; तच्च पताकास्थांनकस्यापि, आगामिवस्तुसूचनात्मकत्वात्, ततोऽस्य को भेदः?
उच्यते। पताकास्थानकेन धर्मादेर्नाटकशरीरभूतस्य साध्यस्य वस्तुनः साधनभूतानामाक्षेपः क्रियते; अत एव तद्विघ्नभूतानामिति विशेषः। अत एव गण्ड इव गण्डको गण्डो ज्ञेयः यथा हि गण्डो गण्डरूपः प्रथममुद्भिद्यमानो व्या वर्त्तको भवति तथा गण्डो ज्ञेयः। तदाह—(नाशा. १८.११८)
२०.(२.१०) वचसा१ सम्बन्धानामन्ते यत्पदं त्वसम्बन्धम्।
सम्बद्धमिवाभाति हि तद् गण्डं नाम वीथ्यां स्यात्।
हास्येनोपगतार्था प्रहेलिका नालिकेति+ विज्ञेया॥ १०४॥
*यथा मालतिकायां वीथ्याम्—