संरम्भसम्भ्रमयुतं विषादयुक्तं तथापवादकृतम्।
बहुवचनाक्षेपकृतं गण्डमिति वदन्ति तत्त्वज्ञाः॥ १००॥
यथा— वेणीसंहारे द्वितीयेऽङ्के दुर्योधनो भानुमतीमुद्दिश्य—(वेसं. २.२३)
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिहारि मम लोचनबान्धवस्य।
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु! ममोरुयुग्मम्॥ १०१॥
दुर्योधनः— आः, किमेवं प्रलपसि?