मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ् मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ९२॥
अथ यथेक्षुभ्यो रसः, सर्षपेभ्यस्तैलं धातुभ्यो हिरण्यं, अश्मभ्यो लोहं, दध्नो नवनीतं, काष्ठतोऽग्निस्तेभ्यस्तेभ्यो यन्त्राग्निमन्थसंयोगेभ्यो निष्पतन्ति तथा स्वेभ्यः स्वेभ्यो विभावानुभावव्यभिचारिसंयोगेभ्यो रतिक्रोधशोकादिभ्यस्ते ते रसा निष्पद्यन्ते।
राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्।
आतङ्काद् विकलं, द्रुतं करुणया, विक्षोभितं विस्मयात्, क्रोधेन ज्वलितं, मुदा विकसितं, चेतः कथं वर्तते॥ ९३॥
अथ यथा लवणाम्लादयः स्वसंयोगिनो मृद्वीकादीनप्यात्मरूपतां नयन्त उपचीयन्ते, तथा रत्यादिजन्मानो रसाः विभावादीनप्यात्मरूपतां नयन्त उपचीयन्ते। यथा—(गास. ४.८९)
कस्स भरिसि त्ति भणिए को मे अत्थि त्ति जप्पमाणाए।
उव्वेगरोइरीए अम्हे वि रुआविआ तीए॥ ९४॥
(कस्य स्मरसीति भणिते को मेऽस्तीति जल्पमानया।