उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥ ९७॥
तं वीक्ष्य वेपथुमती सरसाङ्गयाष्टिः विक्षेप एव पदम्॥ ९८॥
आः सीते ! पतिगर्वविभ्रमभरभ्रान्तभ्रमद्वान्धव प्रध्वंसस्मितकान्तिमत् तव तदा जातं यदेतन्मुखम्।
संप्रत्येष हठात् तदेव कुरुते केशोच्चयाकर्षण— त्र्यश्रोत्तानितलोललोचनपतद्वाष्पप्लुतं रावणः॥ ९९॥
उत्कण्ठा यथा—(कुसं. ६.९५)
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ १००॥