विदूषकः सच्च सवामि बम्हसुत्तेण जइ अम्हेहिं ईदिसी दिठ्ठपुव्वा। (सत्यं शपे ब्रह्मसूत्रेण यदि अस्माभिरीदृशी दृष्टपूर्वा) इति॥
प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः॥ ९५॥
यथा— रत्नावल्यां तृतीयेऽङ्के
राजा— 'वयस्य, कथं दर्शनमपि भविष्यति' इत्युक्तः (रत्ना. ३.४/५)
विदूषकः — कहं ण भविस्सदि, जस्स दे ओहसिदबुहप्पदिबुद्धिविहवो अअं अमच्चो। (कथं न भविष्यति यस्य त उपहसितबृहस्पति— बुद्धिविभवोऽयममात्यः)॥ ९६॥
अत्र विदूषकेणानुभूतस्यार्थस्य हास्यलेशाय व्याहार इति।
श्रुतिसारूप्याद् यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते।