लक्ष्मणः — आर्ये, समाश्वसिहि, समाश्वसिहि।
शूर्पणखा — {अक्षिणी नि(उन् )मील्य, सक्रोधं सकरुणं च} आ अणय्य! अज्जवि तुमं चिठ्ठसि य्येव। अहो दाणिं से तुमं निसंसो निस्सिनेहो। चिठ्ठदु दाव भादुअसिनेहो, कहं इक्खाउकुलसंभवेण महाखत्तिएण भविअ एव्वं तुए ववसिदं ? णं भणामि एवं अक्कदंतो सत्तू वि ण उवेक्खीअदि, किं पुण अय्यउत्तो ?
{आ अनार्य ! अद्यापि त्वं तिष्ठस्येव। अहो इदानीमसि त्वं नृशंसो निःस्नेहः ! तिष्ठतु तावत् भ्रातृस्नेहः, कथम् इक्ष्वाकुकुलसम्भवेन महाक्षत्त्रियेण भूत्वा एवं (त्वया) व्यवसितम् ? ननु भणामि एवमाक्रन्दन् शत्रुरपि नोपेक्ष्यते, किं पुनरार्यपुत्रः ?}
लक्ष्मणः — आर्ये ननु त्वदर्थ एव आर्येण स्थापितोऽस्मि ?
शूर्पणखा — एवं मम अत्थो कदो होदि ? एवं च परिरक्खिदा होमि ? त्ति। (एवं ममार्थः कृतो भवति। एवं चाहं परिरक्षिता भवामि इति) ॥ ९३॥
अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम्॥ ९४॥
यथा— रत्नावल्यां चित्रफलके राजानं सागरिकां चावलोक्य 'कस्स एदं विण्णाणं ?' (कस्येदं विज्ञानम् ?) इति वासवदत्ताप्रश्ने,
राजा — देवि ! अलमन्यथा सम्भावितेन। इयं हि मया स्वचेतसैव विकल्प्यालिखिता, न तु दृष्टपूर्वा।