गोरोचनाहरितबभ्रुबहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य॥ १०९॥
अभीकपीतान्तिकधूसरेभ्यो गर्भस्थताम्बूलरसारुणेभ्यः।
परिश्रमं कर्षति काञ्चनारं पाञ्चालनारीदशनच्छदेभ्यः॥ ११०॥
तिक्ताविलासान्यधुना पुराणमाञ्जिष्ठचेलच्छविधूसराणि।
अलम्बुसायाः कुसुमानि सीम्नि लोलन्ति मन्दं मरुदाहतानि॥ १११॥
उच्छ्वस्योच्छ्वस्य दीर्घं कथमपि शनकैः पाटलागन्धगम्यं प्रभ्रष्टं कर्करीतः स्फुटसितसिकतासेकसत्कर्णिकायाः।
दुराद् धारानिपातप्रविततकणिकासिच्यमानानेन स्वच्छं धन्येन वारि द्रुततुहिनजडं पीयते पाणिनैव॥ ११२॥