रम्यान्तरः कमलिनीभरितैस्सरोभिश्छायाद्रुमैर्नियमितार्कमयूरखतापः।
भूयात् कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः॥
रूपे जाता यथा—(मामा. ७.५)
अयमभिनवमेघश्यामलोत्तुङ्गसानु— र्मदमुखरमयूरीमुक्तसंसक्तकेकः ।
शकुनिशबलनीलानोकहस्निग्धवर्षा/र्ष्मा वितरति बृहदशमा पर्वतः प्रीतिमक्ष्णोः॥ १०७॥
अनुबन्धिनी यथा—(विसा.१.२५, बारा.५.३८)
साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकै— र्बाह्लीकीदशनव्रणारुणदलैः पुष्पैरशोकोऽर्चितः।
हूणीनां कुरुते मधूककुसुमं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरः॥ १०८॥
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः।